|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.108. अध्यायः 108
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति यत्यग्निमहिमानुवर्णनम्॥ 1 ॥ दानपात्रब्राह्मणलक्षणकथनम्॥ 2 ॥ तथाऽन्नदानप्रशंसनम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
युधिष्ठिर उवाच।
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीपिणः।
किंलक्षणोसौ भति तन्मे ब्रूहि जनार्दन॥ 14-108-1(96322)
भगवानुवाच। 14-108-2x(7976)
शृणु राजन्समासेन धर्मशौचविधिक्रमम्।
अहिंसा शौचमक्रोधमानृशंस्यं दमः शमः।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्॥ 14-108-2(96323)
ब्रह्मचर्यं तपः क्षान्तिर्मधुमांसस्य वर्जनम्।
मर्यादायां स्थितिश्चैव शमः शौचस्य लक्षणम्॥ 14-108-3(96324)
बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम्।
वार्धके मौनमातिष्ठेत्सर्वदा धर्ममाचरेत्॥ 14-108-4(96325)
ब्राह्मणान्नावमन्येत गुरुन्परिवदेन्न च।
यतीनामनुकूलः स्यादेष धर्मः सनातनः॥ 14-108-5(96326)
यतिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।
पतिरेव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः॥ 14-108-6(96327)
यद्गृहस्तार्जितं पापं ज्ञानतोऽज्ञानतोपि वा।
निर्दहिष्यति तत्सर्वमेकरात्रोषितो यतिः॥ 14-108-7(96328)
दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनोऽज्ञानिनोपि वा।
गृहस्थैर्यतयः पूज्याः परत्र हितकाङ्क्षिभिः॥ 14-108-8(96329)
एकदण्डी त्रिदण्डी वा शिखी वा मुण्डितोपि वा।
काषायदण्डधारोपि यतिः पूज्यो न संशयः॥ 14-108-9(96330)
अपूजितो गृहस्थैर्वा तथा चाप्यवमानितः।
यतिर्वाऽप्यतिथिर्वाऽपि नरके पातयिष्यतः॥ 14-108-10(96331)
तस्मात्तु यत्नतः पूज्या मद्भक्ता मत्परायणाः।
मयि संन्यस्तकर्माणः परत्र हितकाङ्क्षिभिः॥ 14-108-11(96332)
प्रहरेन्न द्विजान्विप्रो गां न हन्यात्कदाचन।
भ्रूणहत्यासमं चैव उभयं यो निषेवते॥ 14-108-12(96333)
नाग्निं मुखेनोपधमेन्न च पादौ प्रतापयेत्।
नाधः कुर्यात्कदाचित्तु न पृष्ठं परितापयेत्॥ 14-108-13(96334)
नान्तरा गमनं कुर्यान्न चामेध्यं विनिक्षिपेत्।
उच्छिष्टो न स्पृशेदग्निमाशौचस्थो न जातुचित्॥ 14-108-14(96335)
श्वचण्डालादिभिः स्पृष्टो नाङ्गमग्नौ प्रतापयेत्।
सर्वदेवमयो वह्निस्तस्माच्छुद्धः सदा स्पृशेत्॥ 14-108-15(96336)
प्राप्तमूत्रपुरीषस्तु न स्पृशेद्वह्निमात्मवान्।
यावत्तु धारयेद्वेगं तावदप्रयतो भवेत्॥ 14-108-16(96337)
पचनाग्निं न गृह्णीयात्परवेश्मनि जातुचित्।
तस्मिन्पक्वेन चान्नेन यत्कर्म कुरुते शुभम्॥ 14-108-17(96338)
तस्यैव तच्छुभस्यार्धमग्निदस्य भवेन्नृप।
तस्माद्गृहगतं वह्निं प्रकुर्यादविनाशितम्॥ 14-108-18(96339)
प्रमादाद्यदि वाऽज्ञानात्तस्य नाशो भविष्यति।
गृह्णीयात्तु मथित्वा वा श्रोत्रियागारतोपि वा॥ 14-108-19(96340)
युधिष्ठिर उवाच। 14-108-20x(7977)
कीदृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्।
कीदृशेभ्यो हि दातव्यं तन्मे ब्रूहि जनार्दन॥ 14-108-20(96341)
भगवानुवाच। 14-108-21x(7978)
अक्रोधनाः सत्यपरा धर्मनित्या जितेन्द्रियाः।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्॥ 14-108-21(96342)
अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम्॥ 14-108-22(96343)
अलुब्धाः शुचयो वैद्या हीमन्तः सत्यवादिनः।
स्वधर्मनिरता ये तु तेभ्यो दत्तं महाफलम्॥ 14-108-23(96344)
साङ्गंश्च चतुरो वेदान्योऽधीयेत दिनेदिने।
शूद्रान्नं यस्य नो देहे तत्पात्रमृषयो विदुः॥ 14-108-24(96345)
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः।
तारयेत्तत्कुलं सर्वमेकोपीह युधिष्ठिर॥ 14-108-25(96346)
गामश्वमन्नं वित्तं वा तद्विधे प्रतिपादयेत्।
निशम्य तु गुणोपेतं ब्राह्मअणं साधुसंमतम्।
दूरादाहृत्य सत्कृत्य तं प्रयत्नेन पूजयेत्॥ 14-108-26(96347)
युधिष्ठिर उवाच। 14-108-27x(7979)
धर्माधर्मविधिस्त्वेवं भीमं भीष्मेण भाषितम्।
भीष्मवाक्यात्सारभूतं वद धर्मं सुरेश्वर॥ 14-108-27(96348)
भगवानुवाच। 14-108-28x(7980)
अन्नेन धार्यते सर्वं जगदेतच्चराचरम्।
अन्नात्प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः॥ 14-108-28(96349)
कलत्रं पीडयित्वा तु देशे काले च शक्तितः।
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता॥ 14-108-29(96350)
विप्रमध्वपरिश्रान्तं बालं वृद्धमथापि वा।
अर्चयेद्गुरुवत्प्रीतो गृहस्थो गृहमागतम्॥ 14-108-30(96351)
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः।
अर्चयेदतिथिं प्रीतः परत्र हितभूतये॥ 14-108-31(96352)
अतिथिं नावमन्येत नानृतां गिरमीरयेत्।
न पृच्छेद्गोत्रचरणं नाधीतं वा कदाचन॥ 14-108-32(96353)
चण्डालो वा श्वपाको वा काले यः कश्चिदागतः।
अन्नेन पूजनीयः स्यात्परत्र हितमिच्छता॥ 14-108-33(96354)
पिधाय तु गृहद्वारं भुक्ते योऽन्नं प्रहृष्टवान्।
स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर॥ 14-108-34(96355)
पितॄन्देवानृषीन्विप्रानतिथींश्च निराश्रयान्।
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत्॥ 14-108-35(96356)
कृत्वा तु पापं बहुशो यो दद्यादन्नमर्थिने।
ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते॥ 14-108-36(96357)
अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत्।
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता॥ 14-108-37(96358)
अन्नं ह्यमृतमित्याहुरन्नं प्रजननं स्मृतम्।
अन्नप्रणाशो सीदन्ति शरीरे पञ्च धातवः॥ 14-108-38(96359)
बलं बलवतो नश्येदन्नहीनस्य देहिनः।
तस्मादन्नं विशेषेण श्रद्धयाऽश्रद्धयापि वा॥ 14-108-39(96360)
आदत्ते हि रसं सर्वमादित्यः स्वगभस्तिभिः।
वायुस्तस्मात्समादाय रसं मेधेषु धारयेत्॥ 14-108-40(96361)
तत्तु मेघगतं भूमौ शक्रो वर्षति तादृशम्।
तेन दिग्धा भवेद्देवी मही प्रीता च **** 14-108-41(96362)
तस्यां सस्यानि रोहन्ति यैर्जीवन्त्यखिलाः प्रजाः।
मांसमेदोस्थिमज्जानां सम्भवस्तेभ्य एव हि॥ 14-108-42(96363)
एवं सूर्यश्च पवनो मेघः शक्रस्तथैव च।
एक एव स्थितो राशिर्यतो भूतानि जज्ञिरे॥ 14-108-43(96364)
भवनानि च दिव्यानि दिवि तेषां महात्मनाम्।
नानासंस्थानि भूतानि नानाभूमिगतानि च॥ 14-108-44(96365)
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च।
तरुणादित्यवर्णानि स्थावराणि चराणि च॥ 14-108-45(96366)
अनेकशतसङ्ख्यानि सान्तर्जलवनानि च।
तत्र पुष्पफलोपेताः कामदाः सुरपादपाः॥ 14-108-46(96367)
वाप्यो बद्धसभाः कूपा दीर्घिकाश्च सहस्रशः।
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च॥ 14-108-47(96368)
क्षीरस्रवन्त्यः सरितस्तथा चैवान्नपर्वताः।
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः॥ 14-108-48(96369)
प्रासादप्रवराः शुभ्राः शय्याश्च कनकोज्ज्वलाः।
अन्नदास्तत्र तिष्ठन्ति तस्मादन्नप्रदो भवेत्॥ ॥ 14-108-49(96370)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि अष्टोत्तरशततमोऽध्यायः॥ 108 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|